730
श्लेषाद्यलंकारसामर्थ्यात्तु क्वचिदवास्तवमपि रसाभाससंकरं कवयः प्रकल्पयन्ति1645 ॥
स रूपकश्लेषेण यथा—
‘राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ ४९७ ॥’
अत्र बीभत्सो रसः श्लेषरूपकसामर्थ्यादविद्यमानेनापि श्रृङ्गाररसेन संकीर्ण इव प्रतीयते ॥
श्लेषानुविद्धार्थान्तरन्यासेन यथा—
[दष्टौष्ठ हो असिलताधातो देवि मुकलयति लोचनभ्रुवौ द्वे अपि ।
सुपयोधरकुवलयपत्त्रलक्ष्मीः कथं मोहं न जनयति न लग्ना वक्षसि ॥]
अत्र वीरो रसः श्लेषसामर्थ्यादविद्यमानेनापि विप्रलम्भश्रृङ्गारेण संकीर्यते ॥
- ‘वर्णयन्ति’ क, ‘कल्पयन्ति’ ख↩
- ‘अस्यार्थस्तत्र वीररसे तावत्—हो इत्याश्चर्यसंबोधने । दष्टौष्ठअसिलताघातः खङ्गप्रहारस्तवापि मुकुलयति लोचनभ्रुवौ द्वे अपि । अथ च सुष्ठु पान्ति ये योधास्तान् रांत्यादत्ते तादृशानेव महावीरान्स्वीकरोति ईदृशी या कुवलयप्राप्ता सकलमेदिनीमण्डलप्राप्ता लक्ष्मीः कथं मोहं न न जनयति । लग्रा वक्षसि काक्वा जनयत्येवेत्यर्थः । अपि च विप्रलम्भश्रृङ्गारे हे दष्टौष्ठ पीताधरामृत भोगशीलक, घातः अर्थात्तव प्राणसमाया नखाघातोऽपि ते तव मुकुलयति लोचनभ्रुवौ द्वे अपि अथ च सुष्ठुपयोधरौ स्तनौ यस्याः सा । कुवलयपत्त्रालाक्षी नीलोत्पलदलसमाननयना न लग्ना वक्षसि कथं न मोहं न जनयति । अपि तु जनयतीत्यर्थः । सहृदय हृदयंगम ।’ घ टिप्पणी↩
- ‘असिलवाअच्चाओ’ ख↩
- ‘लोअणभउन्तो’ क, ‘लोअणभओहो’ ग घ↩
- ‘कुवलअपत्तिलच्छि’ क, ‘कुवलय’ ख↩
- ‘कहमोनुभाइणगाजणवच्छि’ क↩