731

श्लेषोपमा यथा—

‘क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संक्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स 1651दहतु दुरितं शाम्भबो वः शराग्निः ४९९’

अत्र करुणो रसः श्लेषोपमासामर्थ्येनाविद्यमानेनापि विप्रलम्भशृङ्गारेण संकीर्यते ॥

श्लेषव्यतिरेकेण यथा—

‘पद्भ्यामूरुयुगं विभज्य भुजयोर्भध्यं निपीड्योरसा पार्श्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विलूयाधरम्1652
सुप्तानप्यवबोध्य युष्मदहितान्भूयोऽपि 1653भुङ्के वने किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना ॥ ५०० ॥’

1654अत्र श्लेषसामर्थ्यादपारमार्थिकी शृङ्गार1655प्रतीतिः पारमार्थिकेन बीभत्सरसेन व्यावर्तमाना तद्धर्माणां मिथः 1656संसर्गबुद्धिमुत्पादयति ॥

श्लेषरूपकेण यथा—

‘अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्त्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ ५०१ ॥’

अत्र वीभत्सो रसः शब्दसामर्थ्याक्षिप्तेन शृङ्गराभासेन संकीर्यते ॥

  1. ‘हरतु’ ख
  2. ‘विलुप्याधरम्’ ख
  3. भुक्ते’ ख
  4. ‘इह’ क ख
  5. ‘प्रतीतिः’ घ
  6. ‘संसर्गवद्बुद्धिम्’ क