731
श्लेषोपमा यथा—
‘क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संक्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स 1651दहतु दुरितं शाम्भबो वः शराग्निः ४९९’
अत्र करुणो रसः श्लेषोपमासामर्थ्येनाविद्यमानेनापि विप्रलम्भशृङ्गारेण संकीर्यते ॥
श्लेषव्यतिरेकेण यथा—
1654अत्र श्लेषसामर्थ्यादपारमार्थिकी शृङ्गार1655प्रतीतिः पारमार्थिकेन बीभत्सरसेन व्यावर्तमाना तद्धर्माणां मिथः 1656संसर्गबुद्धिमुत्पादयति ॥
श्लेषरूपकेण यथा—
‘अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्त्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ ५०१ ॥’
अत्र वीभत्सो रसः शब्दसामर्थ्याक्षिप्तेन शृङ्गराभासेन संकीर्यते ॥