अत्र सर्वदैव श्रीवत्सलक्ष्मणो लक्ष्मीविषये महाकुलीनतौदार्यस्थिरानुरागितारूपयौवनवैदग्ध्यशीलसौभाग्यमहाभाग्यादिभिः समुत्पन्ना रतिस्तदवयवविशेषकामनीयकविभावनेनोद्दीपनविभावातिशयेनोद्दीप्यमानां ब्रह्मणः समक्षमप्यालिङ्गनलक्षणेन शरीरारम्भानुभावेनानुमीयमानां लज्जाप्रणाशलक्षणां प्रेमपुष्टेरष्टमीमवस्थामध्यास्ते । अत्र चानुक्ता अपि सात्त्विका व्यभिचारिणोऽन्येऽपि चानुभावविशेषाः प्रतीयन्ते । श्रियोऽपि च समग्रात्मगुणसंपदाश्रये श्रीवत्सलक्ष्मणि तथाभूता तदभ्यधिका वा397 रतिः प्रवृद्धप्रेमप्रियतमालिङ्गनलक्षणेनोद्दीपनविभावेवोद्दीप्यमाना नयननिमीलनानुमेयां समस्तसात्त्विकानुभावव्यभिचारिहेतुं प्रेमपुष्टेरुत्तमा398मवस्थामाश्रयति । सोऽयं विषयसौन्दर्यादाश्रयप्रकृतेः संस्कारपाटवादुद्दीपनातिशयाच्च परां कोटिमावहन् रसः पुष्ट इत्युच्यते । अत्रैव ब्रह्मणः श्रियं प्रति मनोहरा ममेयं सृष्टिरिति, रत्नाकरस्येयमात्मजेति, चन्द्रा-574 मृतादीनामियं सोदर्येति, विष्णोरियं प्रियतमेति, कामस्येयं जननीत्यादिभ्य आलम्बनेभ्यः समुत्पन्ना प्रीतिः स्वावासानुपघातिना शरीरसंनिवेशेन दृङ्मिमीलनजनितया च तदुपघातशङ्कयोद्दीप्यमाना तत्क्षणोपजायमानतया आवेगस्मृतिवितर्कोन्मादमोहचिन्तादिभिर्व्यभिचारिभावैस्तदनुमेयैश्च स्तम्भवेपथुप्रभृतिसात्त्विकैः शिवानुध्यानलक्षणेन बुध्द्यारम्भानुभावेन संसृज्यमाना परं प्रकर्षमारोहन्ती399 प्रतीयते ॥

  1. ‘च’ घ
  2. ‘रुत्तरा’ ख
  3. ‘मारोहतीति’ क ख