573 -संगमस्य तस्याकस्मिकदर्शनेनोद्दीप्यमाना सद्यःसमुपजायमानसात्त्विकस्वेदस्तम्भवेपथूपलक्षितैर्हर्ष392स्मृत्यावेगसाध्वसादिभिर्व्यभिचारिभावैः393 394पदनिक्षेपलक्षणेन च शरीरानुभावेन संसृज्यते । सोऽयं विभावानुभावव्यभिचारिसंयोगे395 रतिरूपेण रसो निष्पद्यते ।

रतिरूपेणैव 396रसपुष्टिर्यथा—

‘पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनं पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः ।
स्वावासानुपघातनिर्वृतमनास्तत्कालमीलद्दृशे यस्मै सोऽच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति ॥ ८ ॥’

अत्र सर्वदैव श्रीवत्सलक्ष्मणो लक्ष्मीविषये महाकुलीनतौदार्यस्थिरानुरागितारूपयौवनवैदग्ध्यशीलसौभाग्यमहाभाग्यादिभिः समुत्पन्ना रतिस्तदवयवविशेषकामनीयकविभावनेनोद्दीपनविभावातिशयेनोद्दीप्यमानां ब्रह्मणः समक्षमप्यालिङ्गनलक्षणेन शरीरारम्भानुभावेनानुमीयमानां लज्जाप्रणाशलक्षणां प्रेमपुष्टेरष्टमीमवस्थामध्यास्ते । अत्र चानुक्ता अपि सात्त्विका व्यभिचारिणोऽन्येऽपि चानुभावविशेषाः प्रतीयन्ते । श्रियोऽपि च समग्रात्मगुणसंपदाश्रये श्रीवत्सलक्ष्मणि तथाभूता तदभ्यधिका वा397 रतिः प्रवृद्धप्रेमप्रियतमालिङ्गनलक्षणेनोद्दीपनविभावेवोद्दीप्यमाना नयननिमीलनानुमेयां समस्तसात्त्विकानुभावव्यभिचारिहेतुं प्रेमपुष्टेरुत्तमा398मवस्थामाश्रयति । सोऽयं विषयसौन्दर्यादाश्रयप्रकृतेः संस्कारपाटवादुद्दीपनातिशयाच्च परां कोटिमावहन् रसः पुष्ट इत्युच्यते । अत्रैव ब्रह्मणः श्रियं प्रति मनोहरा ममेयं सृष्टिरिति, रत्नाकरस्येयमात्मजेति, चन्द्रा-

  1. ‘हर्षधतिस्मृत्यावेग-’ क ख
  2. ‘व्यभिचारिभिर्भावैः’ क ख
  3. ‘विक्षेपलक्षणेन’ क ख
  4. ‘संयोगैः’ क ख
  5. ‘रतिपुष्टिः’ क
  6. ‘च’ घ
  7. ‘रुत्तरा’ ख