अत्र भयानको रसः समाधिरूपकाद्युपकल्पिताकल्परामणीयकाक्षिप्तेन शृङ्गाराभासेन संकीर्यमाणः श्रोतुः प्रेयोरसाङ्गतां गच्छन्संगच्छते । एवमियमम1657नेकप्रकारसंसृष्टिर्गुणालंकारसंकरप्रभवाभिमन्तव्या तत्रापि प्रधानाङ्गभावेन समकक्षतया च व्यक्ताव्यक्तोभयात्मकरूपास्तिलतन्दुल1658क्षीरजलाच्छायादर्शकादयो भेदा 1659यथायोगमवगन्तव्याः । ते किं वक्तव्या न वक्तव्याः । कथमनुक्ता गम्यन्ते । उक्तेष्वेवान्तर्भावात् । तद्यधा--अर्थोभयालंकाराभिधाने ‘खं वस्ते’ इति ‘चर्चां पारयति’ इति विभक्तिमुद्रा, कलविङ्कण्ठमलिनं कादम्बिनीकम्बलम् इति पदमुद्रा च शब्दालंकारावपि संकीर्यमाणौ प्रतीयेते ।

  1. ‘अनेकप्रकारसंसृष्टिः’ ख
  2. ‘तण्डुल’ क ख
  3. ‘यथायोग्यं’ ख