732

समाधिरूपकेण यथा—

‘शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले दृशस्तारास्ताराश्चलमुडुपचक्रं च कुचयोः ।
तडित्काञ्ची सन्ध्या सिचयरुचयः कालि तदयं तवाकल्पः कल्पव्युपरमविधेयो विजयते ॥ ५०२ ॥’

अत्र भयानको रसः समाधिरूपकाद्युपकल्पिताकल्परामणीयकाक्षिप्तेन शृङ्गाराभासेन संकीर्यमाणः श्रोतुः प्रेयोरसाङ्गतां गच्छन्संगच्छते । एवमियमम1657नेकप्रकारसंसृष्टिर्गुणालंकारसंकरप्रभवाभिमन्तव्या तत्रापि प्रधानाङ्गभावेन समकक्षतया च व्यक्ताव्यक्तोभयात्मकरूपास्तिलतन्दुल1658क्षीरजलाच्छायादर्शकादयो भेदा 1659यथायोगमवगन्तव्याः । ते किं वक्तव्या न वक्तव्याः । कथमनुक्ता गम्यन्ते । उक्तेष्वेवान्तर्भावात् । तद्यधा--अर्थोभयालंकाराभिधाने ‘खं वस्ते’ इति ‘चर्चां पारयति’ इति विभक्तिमुद्रा, कलविङ्कण्ठमलिनं कादम्बिनीकम्बलम् इति पदमुद्रा च शब्दालंकारावपि संकीर्यमाणौ प्रतीयेते ।

एवमन्यत्रापि ।

अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता ।
इत्यलंकार1660संसृष्टेर्लक्षणीया द्वयी गतिः ॥ १७६ ॥

तत्राङ्गाङ्गिभावेनावस्थानं यथा—

‘आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् ।
कोषदण्डसमग्राणां किमेषामस्ति दुष्करम्1661 ॥ ५०३ ॥’

1662अत्रारविन्दानि ‘मुग्धे तव मुखश्रियमाक्षिपन्तीति’ उपमा, ‘कोष-

  1. ‘अनेकप्रकारसंसृष्टिः’ ख
  2. ‘तण्डुल’ क ख
  3. ‘यथायोग्यं’ ख
  4. ‘संसृष्टिः’ घ
  5. ‘अतिदुष्करं’ घ
  6. ‘अत्र—’ इत्यारभ्य ‘दुष्करम्’ इत्यन्तः पाठो ग घ नास्ति