733 दण्डसमग्राणां किमेषामस्ति दुष्करम्’ इति श्लेषोपसर्जनार्थान्तरन्यासः । 1663भवन्ति चारविन्दानि कोषदण्डसमग्राणि 1664तेन तेषां न किंचिदशक्यमस्ति कोषदण्डयोर्विजयसाधनत्वात् । एतेन श्लेषस्य 1665साधनभूतार्थसमर्थकत्वादुपमायास्तु प्रस्तुतसाध्यवस्तुविशेषकत्वादर्थान्तरन्यासं प्रत्यङ्गभावो विज्ञायते ।

सर्वेषां समकक्षतां यथा—

‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्नि1666ष्फलतां गता ॥ ५०४ ॥’

1667ननु चाबन्धः समत्वात्स्यादिति कथं सर्वेषां तुल्यकक्षतया संबन्धोत्पत्तिः एवं मन्यते ये उत्प्रेक्षोपमादयोऽलंकारा विभावानुभावव्यभि1668चार्यादिवर्णनापरतया रसादेरङ्गतां प्रतिपद्यन्ते तदा भवत्येव तेषां तुल्यकक्षतेति । तत्र ‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः’ इति द्वे1669 उत्प्रेक्षे, ‘असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता’ इत्युपमा च वर्णनीयस्य तमस उद्दीपनविभावभूतस्य समतयैवोत्कर्षप्रतिपादकत्वेना1670ङ्गभावमुपगतेति नास्ति लक्षणानुपपत्तिरिति । ननूपमा इमास्तिस्रोऽपि कस्मान्नोच्यन्ते । इवो हि वाक्यान्तरेषूपमाया एव दृश्यते । 1671मैवम् । उपमानोपमेयशब्दप्रतिपन्नस्य1672 सादृश्यार्थस्य द्योतनमिवेन क्रियते न च लिम्पतीत्यादावुपमानमुपमेयं वास्ति यत्सादृश्यद्योतनय इवः 1673प्रयुज्येत् । न च तिङन्तेनोपमानमस्ति तस्य साध्यार्थाभिधायित्वेनासत्त्वार्थत्वात्1674

  1. ‘प्रभवन्ति’ क ख
  2. ‘तेन किं तेषां’ क ख
  3. ‘साधनमानभूतार्थ’ ख
  4. ‘विफलतां गता’ क ख
  5. ‘ननु च तमसश्च नभसश्च असतश्च संबन्धसमत्वात्’ क ख
  6. ‘व्यभिचारिवर्णनापरा’ क ख
  7. ‘द्वे’ ख नास्ति
  8. ‘प्रागभावम्’ ख
  9. ‘नैवम्’ क
  10. ‘उपमानोपमेयं प्रति यत्तस्य’ ख
  11. ‘प्रयुज्यते’ ख
  12. ‘असत्त्वार्थकत्वात्’ ख