574 मृतादीनामियं सोदर्येति, विष्णोरियं प्रियतमेति, कामस्येयं जननीत्यादिभ्य आलम्बनेभ्यः समुत्पन्ना प्रीतिः स्वावासानुपघातिना शरीरसंनिवेशेन दृङ्मिमीलनजनितया च तदुपघातशङ्कयोद्दीप्यमाना तत्क्षणोपजायमानतया आवेगस्मृतिवितर्कोन्मादमोहचिन्तादिभिर्व्यभिचारिभावैस्तदनुमेयैश्च स्तम्भवेपथुप्रभृतिसात्त्विकैः शिवानुध्यानलक्षणेन बुध्द्यारम्भानुभावेन संसृज्यमाना परं प्रकर्षमारोहन्ती399 प्रतीयते ॥

रतौ भयादिसंकरो यथा—

‘राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् ।
आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मयात् क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ॥ ९ ॥’

अत्र माधवस्य मालत्यां पूर्वमुत्पन्ना रतिस्तदवस्था400लोकनादिभिरुद्दीपनविभावैरुद्दीप्यमाना भयशोकविस्मयक्रोधहर्षैरपि रसान्तरैः पृथक्पृथग्विभावानुभावव्यभिचारिसंयोगान्निष्पद्यमानैः संकीर्यमाणा मनोवाग्बुद्धि401शरीरारम्भानुभावैर्भयाद्यनुरूपैश्च सात्त्विकव्यभिचारिभिः संपर्के परं प्रकर्षमारोहन्ती प्रतीयते । तत्र चेतसो वैकल्यादिपरिभावनं मनआरम्भः, वाक्योच्चारणं वागारम्भः, राहोरिव दस्योश्चन्द्रकलामिव प्रेयसीमित्यादि बुध्द्यारम्भः, 402आच्छिन्दत इत्यादि शरीरारम्भः, भयादीनां च पञ्चानामपि यथाक्रमं राहोरिति, चन्द्रकलामिवाननचरीमिति, दैवात्समासाद्य मे इति, दस्योरस्य कृपाणपातविषयादिति, आच्छिन्दतः प्रेयसीमित्यालम्बनविभावास्तत्स्वरूपपरिभावनान्युद्दीपनविभावाः, विकलम्,

  1. ‘मारोहतीति’ क ख
  2. ‘तदवस्थावलोकनादिभिः’ ग घ
  3. ‘शारीरानुभावैः’ घ
  4. ‘आच्छिद्यत’ घ