734

तदाह—

‘सिद्धस्य हि समानार्थमुपमानं विधीयते ।
तिङन्तार्थस्य साध्यत्वादुपमार्थो न विद्यते ॥’

न चोपमायामेवेवशब्दो भवति । तद्यथा कथमिवैतद्भविष्यति । अस्तु वा लिम्पतितमसोरुपमानोपमेयभावस्तथापि तुल्यधर्मो न दृश्यते य उपमानोपमेयभावाय प्रभवति । किमन्यैन लेपनमेव भवति तर्हि लिम्पतिना1675 केन भाव्यम् । न हि लेपनं लिम्पेः पृथग्मवितुमीष्टे । ननु चेह द्वयं चकास्ति थातुर्लिम्पति तदर्थश्च1676 लेपनम् । मैवम् । एवं सति लिम्पतिरिवेति स्यात् न तु लिम्पतीवेति । अथ यथा राहोः शिरः इति भेदाभावेऽप्यवयवावयविभावस्तथेह धर्मधर्मिभावो भविष्यति । मैवम् । उपमानोपमेयभावस्य भेदसादृश्यप्रतिपत्तिनिबन्धनत्वात् तदभावेऽपि यस्तन्मनुते स कथं नोन्मत्तः स्यात् ।

तदुक्तम्—‘स एव धर्मो धर्मी चेत्युन्मत्तोऽपि न भाषते ।’ अस्तु तर्हि तिङ्वाच्यः1677 कर्ता उपमानमिति चेत् न्यग्भूतोऽसौ क्रियापदे । कथं पुनरसौ क्रियापदे1678 न्यग्भूतो भवति । श्रूयतां, षडर्थास्तिङन्तेन प्रतीयन्ते क्रिया कालः उपग्रहः साधनं सङ्ख्या पुरुषश्चेति । तेषु क्रियाकालात्मनेपदपरस्मैपदनिमित्तानि प्रकृतिरभिधत्ते प्रत्ययः साधनं, सङ्ख्यां पुरुषं च । एतेषां तु क्रियार्थत्वात्क्रिया प्रधानं, कालात्मनेपदनिमित्ते क्रियाविशेषणत्वेन, सङ्ख्यापुरुषौ साधनविशेषणत्वेन तयोरेव न्यग्भवतः । साधनं पुनः ‘प्रकृतिप्रत्ययौ1679 1680स्वार्थं सह ब्रूतः’ इति न्यायात् ‘प्रधानभूतमपि भूतं भव्यायोपदिश्यत’ इति न्यायेन क्रियासिद्धावुत्प-

  1. ‘नलिम्पतिना’ क
  2. ‘शब्दार्थश्च’ क
  3. ‘तिङां यः’ ख
  4. ‘क्रियावयवे’ ख
  5. ‘प्रकृतिप्रत्ययार्थौ’ ख
  6. ‘यत्र सहार्थ ब्रूते’ क