वाक्यवदेव प्रबन्धेष्वनौचित्यपरिहारेण गुणालंकारसंकरनिवेशो भवति । तत्रानौचित्यपरिहारो यथा—मायया कैकेयीदशरथाभ्यां रामः प्रलम्भितो न मातापितृभ्यामिति निर्दोषदशरथे; राममेव योधयन् रामेण वाली निहतो न सुग्रीवेणेति महावीरचरिते; रुधिरप्रियराक्षसेन दुःशासनस्य रुधिरं पीतं न भीमसेनेनेति वेणीसंहारे; दुर्वाससोऽपध्यानाद्दुष्यन्तः शकुन्तलास्वीकारं विसस्मार, 1690नानावस्थितितानुरागतयेति शाकुन्तले; लवणप्रयुक्तराक्षसाभ्यां वा सोपस्करेण 1691तदभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे; किंच दग्धायामपि 737 वासवदत्तायां वैरप्रतिचिकीर्षया पद्मावती मयोढा, अवसिते च समीहिते तथा विना क्षणमपि न जीवामीत्यविज्ञातवासवदत्तासंनिघेर्वत्सराजस्याग्निप्रवेशाध्यवसायः प्रियाहृदयतो व्यलीकशल्यमुच्चखानेति तापसवत्सराजे; 1692नीचाक्षः स्वामिकार्यं साधयामीति प्रभुभक्त्या निरपराधामपि प्रेयसीं हित्वा स्वामिकार्यापेक्षयाहमेवैतावन्ति दिनानि जीवितः, अद्य तु कृतस्वामिकार्यस्तामेवानुगच्छामीति शिवगणः शूद्रकनिमित्तां मायामयीं चितां प्रियासमक्षं प्रविवेश, सापि तत्प्रेमावदानदर्शनापह्नुतप्रियब्यलीका1693 तद्वियोगकातरा तत्रैवात्मानं प्रतिचिक्षेपेति विक्रान्तशूद्रके, इति तदेतद्दोषहानम् ॥ गुणोपादानं तु सम्यग् गुणयोगेन संविधाने सुसूत्रता, अपि च चतुर्वृत्त्यङ्गसंपन्नमिति चतस्रो वृत्तयो भारती आरभटी कैशिकी सात्त्वती चेति । तत्र—

  1. ‘नानवस्थितानुरागतया’ क ख
  2. ‘तदनभिधाय’ ख नास्ति
  3. ‘मचीचाक्षः’ ख
  4. ‘प्रियव्यलीकात्’ ख