738

तत्र वक्तव्यार्थप्रशंसापरं वचः प्ररोचना; यथा—

‘जयति भुवनकारणं स्वयम्भुर्जयति पुरन्दरनन्दनो मुरारिः ।
जयति गिरिसुतानिरुद्धदेहो दुरितभयापहरो हरश्च देवः ५०५

प्रस्तुतवस्तूपपादनावसरसूचकं वचः प्रस्तावना; यथा रत्नावल्याम् ।

‘द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ५०६’

उद्धात्यकादीनामङ्गानां प्रवृत्तिः वीथी उद्धात्यकः कथोद्धातः प्रयोगातिशयः प्रवर्तकोऽवलगितमिति ।

तत्रोद्धात्यको यथा—

‘को जयति जयति शर्वः केन जितं जितमनङ्गदहनेन ।
त्रिपुरारिणा भगवता बालशशाङ्काङ्कितजटेन ॥ ५०७ ॥’

कथोद्धातो यथा—

‘साकं पङ्कजजन्मना सुरपतेरभ्यर्थनाया वशा- दिक्ष्वाकोः शरदिन्दुबिम्बविमले वंशेऽवतीर्य स्वयम् ।
निःशेषात्तपदं 1695त्रयीपथजुषां विद्वेषिणं राक्षसं यः पौलस्त्यमहन् स पातु भवतो रामाभिधानो हरिः ५०८

प्रयोगातिशयो यथा—

1696यूथायितमवतु हरेः क्ष्मामुद्धरतो वराहवपुषो वः ।
1697शेषफणरत्नदर्पणसहस्रसंक्रान्तबिम्बस्य ॥ ५०९ ॥’
  1. ‘त्रयीपदजुषां’ ख
  2. ‘उत्थापितम्’ क, ‘अत्याहितम्’ ख
  3. ‘शेषफणा, रत्नदर्पण’ क ख