738
तत्र वक्तव्यार्थप्रशंसापरं वचः प्ररोचना; यथा—
‘जयति भुवनकारणं स्वयम्भुर्जयति पुरन्दरनन्दनो मुरारिः ।
जयति गिरिसुतानिरुद्धदेहो दुरितभयापहरो हरश्च देवः ५०५
प्रस्तुतवस्तूपपादनावसरसूचकं वचः प्रस्तावना; यथा रत्नावल्याम् ।
‘द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ५०६’
उद्धात्यकादीनामङ्गानां प्रवृत्तिः वीथी उद्धात्यकः कथोद्धातः प्रयोगातिशयः प्रवर्तकोऽवलगितमिति ।
तत्रोद्धात्यको यथा—
‘को जयति जयति शर्वः केन जितं जितमनङ्गदहनेन ।
त्रिपुरारिणा भगवता बालशशाङ्काङ्कितजटेन ॥ ५०७ ॥’
कथोद्धातो यथा—
‘साकं पङ्कजजन्मना सुरपतेरभ्यर्थनाया वशा-
दिक्ष्वाकोः शरदिन्दुबिम्बविमले वंशेऽवतीर्य स्वयम् ।
निःशेषात्तपदं 1695त्रयीपथजुषां विद्वेषिणं राक्षसं
यः पौलस्त्यमहन् स पातु भवतो रामाभिधानो हरिः ५०८
प्रयोगातिशयो यथा—