739

प्रवर्तको यथा—

‘आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय 1698एष विशुद्धकान्तः1699
उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥ ५१० ॥’

अवलगितं यथा,—अमुमेव शरत्समयमाश्रित्य गीयताम्, तथा ह्यस्याम्1700

‘सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ ५११ ॥’

1701स्वधर्मात्प्रचलितानां तापसादीनामुपहासपरं वचः प्रहसनम् । यथा—

‘श्रमणः श्रावकवध्वाः सुरतविधौ दशति नाधरं दत्तम् ।
मदिराक्षि मांसभक्षणमस्मत्समये निषिद्धमिति ॥ ५१२ ॥’

संक्षिप्तिका, अवपातः, वस्तूत्थापनम्, संस्फोटः, इति चत्वारि आरभट्यङ्गानि ॥

तेषु माहेन्द्रजालनेपथ्यादिभिर्वस्तुसंक्षेपः संक्षिप्तिका । यथा—

‘रक्षसा मृगरूपेण वञ्चयित्वा सराघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ५१३ ॥’

भयादिभिर्विद्रवादिकर्मानुप्रवेशनिर्गमनमवपातः । यथा—

‘मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ ५१४ ॥’
  1. ‘एव’ क
  2. ‘विशुद्धकीर्तिः’ क ख
  3. ‘तथा ह्यस्याः’ ख 'तथा ह्यस्याम्’ घ नास्ति
  4. ‘स्वधर्मविप्रचलितानाम्’ क, ‘स्वधर्मवित्प्रचलितानां’ ख