739
प्रवर्तको यथा—
अवलगितं यथा,—अमुमेव शरत्समयमाश्रित्य गीयताम्, तथा ह्यस्याम्1700
‘सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ ५११ ॥’
1701स्वधर्मात्प्रचलितानां तापसादीनामुपहासपरं वचः प्रहसनम् । यथा—
‘श्रमणः श्रावकवध्वाः सुरतविधौ दशति नाधरं दत्तम् ।
मदिराक्षि मांसभक्षणमस्मत्समये निषिद्धमिति ॥ ५१२ ॥’
संक्षिप्तिका, अवपातः, वस्तूत्थापनम्, संस्फोटः, इति चत्वारि आरभट्यङ्गानि ॥
तेषु माहेन्द्रजालनेपथ्यादिभिर्वस्तुसंक्षेपः संक्षिप्तिका । यथा—
‘रक्षसा मृगरूपेण वञ्चयित्वा सराघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ५१३ ॥’
भयादिभिर्विद्रवादिकर्मानुप्रवेशनिर्गमनमवपातः । यथा—
‘मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ ५१४ ॥’