741

कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भः । यथा—

‘अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ ५२० ॥’

उत्थापकः, परिवर्तकः, संलापकः, संघात्यकः, इति चत्वारि सात्वत्यङ्गानि ।

तेषु परस्परीभूतार्थेषूत्थापनमुत्थापकः । यथा—

‘प्रहर मम तु कायं प्राक्प्रहारप्रियोऽहं 1702मयि तु कृतविघाते किं विदध्याः परस्मात् ।
झटिति विततबह्वङ्गारभास्वत्कुठार- प्रविघटितकठौरस्कन्धबन्धः कबन्धः ॥ ५२१ ॥

प्रस्तुतार्थत्यगादन्यार्थभजनं, परिवर्तकः । यथा—

‘मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतां गुणेन ।
मदनमुपदधे स एव ताभ्यो दुरधिघमा हि गतिः प्रयोजनानाम् ॥ ५२२ ॥

सदसि नानावाक्यैर्मिथोऽधिक्षेपः संलापकः । यथा—

‘कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य ।
तव भुजबलदर्पाध्द्यायमानस्य वामः शिरसि चरण एष न्यस्यते धारयैनम् ॥ ५२३ ॥’

कार्यमन्त्रानुभावदैवादिभिः संघातभेदः संघात्यकः । यथा—

‘अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
मुह्यत्येव हि कृच्छ्रेषु संभ्रमाधिगतं मनः ॥ ५२४ ॥’
  1. ‘अपि तु’ ख