‘चतुर’ इत्यनेन शास्त्रीयलौकिकव्यवहारवेदिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमुच्यते । ‘उदात्त’ इत्यनेन आशयविभूत्योराभिजात्ययौवनादीनां चोत्कर्षः प्रकाश्यते । चतुर्वर्गफलं 1703प्रबन्धं को वा न बान्धवीयतीत्यनेन श्रोतॄणां रामादिवद्वर्तितव्यम्, न रावणादिवदिति विधिनिषेधनिबन्धनस्य1704 प्रबन्धस्याभीष्टतमत्वमाख्यायते । ‘मुखं प्रतिमुखम्' इत्यादिना पञ्चाङ्गं प्रबन्धशरीरमभिधीयते । तदङ्गानि चोपक्षेपपरिकरादीनि चतुःषष्टिरपि मुखादिष्वेवान्तर्भवन्ति । अतस्तद्वदेव पञ्चसंध्येकमपि वाक्यं प्रबन्धव्यपदेशमासादयति । तद्यथा—

  1. ‘प्रबन्धे’ ख
  2. ‘निबन्धस्य’ क