575 द्रुतम्, विक्षोभितम्, 403ज्वलितम्, विकसितं चेत404 इत्यनुभावाः, आतङ्ककरुणाविस्मयक्रोधमुदनुरूपाश्च कम्पाश्रुस्तम्भवैवर्ण्यरोमाञ्चादयः सात्त्विकाः, मोहविषादवित405र्कोग्रताधृत्यादयो व्यभिचारिणश्चानुमीयमाना निष्पत्तिहेतवो भवन्ति । सोऽयं तुल्यकालबलोत्पत्तिकारणानां भयादिनिष्पत्तीनां रतौ संसर्गः संकर इत्युच्यते ॥

रतिरूपेण रसप्रकर्षस्य ह्रासो यथा—

‘कोपो यत्र 406भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्य407स्मितमनुनयो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ १० ॥’

अत्र योषिति रोषाख्यरसान्तरतिरस्कारात्पुरुषे 408चान्यरागाद्रतिप्रकर्षस्य 409ह्रासोऽवसीयते ।

रतिरूपेण हीनपात्रेषु रसाभासो यथा—

‘विक्किणइ माहमासम्भि 410पामरो पारडिं वइल्लेण ।
411दिट्ठिं समुम्मुरे सामलीअ थणए णिअच्छन्तो ॥ ११ ॥’
[विक्रीणीते माघमासे पामरःप्रावरकं बलीवर्देन ।
दृष्टिं समुर्मुरे श्यामल्याः स्तनके नियच्छन् ॥]
  1. ‘चलितम्’ क
  2. ‘विकसितं च त’ घ, ‘विकसितमित्यनुभावाः’ क
  3. ‘विषादोदकोंग्रता’ क , ‘विषादामर्षोग्रता’ ख
  4. ‘भृकुटिरचना’ घ
  5. ‘यत्रान्योन्यं’ क
  6. ‘चानुरागा-’ ख , ‘चान्यरागा’ घ
  7. ‘हासोऽवगम्यो’ क ख
  8. ‘पामरो पारणं वि इल्लेण’ क, ‘पामरो पारडिं वइल्लेण’ ख, ‘पामरो पाइडिं वइल्लेण’ मुद्रितगाथास॰
  9. ‘णिद्धूममुम्मुरे सामलीष थणम णिअच्छन्तो’ क , ‘णिद्धममुम्मुर च्चिअ सामलीए थणो पडिच्छन्तो’ इति मुद्रितगाथास॰, ‘विदु समुम्मुरे सामलीए थण णिअच्छन्तो’ ख