576

तिर्यक्षु यथा—

412पाअडिअं सोहग्गं तंबाए 413उअह गोट्ठमज्झम्मि ।
दुट्ठवसहस्स सिंगे अच्छिउडं कण्डुअन्तीए ॥ १२ ॥’
[प्रकटितं सौभाग्यं गवा पश्यत गोष्ठमध्ये ।
दुष्टवृषभस्य शृङ्गेऽक्षिपुटं कण्डूयमानया ॥]

नायकप्रतियोगिषु यथा—

‘पुलअं 414जणेन्ति दहकंधरस्स राहवसरा सरीरम्मि ।
जणअसुआफंसम415हग्घविअ 416करअलाअट्ठिअविमुक्का ॥ १३ ॥’
[पुलकं जनयन्ति दशकंधरस्य राघवशराः शरीरे ।
जनकसुतास्पर्शमहार्घा इव करतलाकृष्टविमुक्ताः ॥]

गौणेषु यथा—

‘उव्वहइ 417नवतणंकुररोमञ्चपसाहिआइं418 अंगाइं ।
419पाउसलच्छीअ पओहरेहिं पडिवेल्लिओविज्झो420 ॥ १४ ॥’
[उद्वहति नवतृणाङ्कुररोमाञ्चप्रसाधितान्यङ्गानि ।
प्रावृट्लक्ष्म्याः पयोधराभ्यां प्रतिप्रेरितो विन्ध्यः ॥]

421तं एते चत्वारोऽपि रसाभासा उच्यन्ते ॥

रतावेव लज्जारोषरूपरसान्तरयोः प्रशमो यथा—

‘दृष्टे लोचनवन्मनाङ्युकुलितं पार्श्वस्थितेवक्रव -न्न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति ।
  1. ‘पअपाडिअं’ क ‘पाअपडिअ’ ख
  2. ‘उसह गोट्ठमज्झम्मि’ क ‘वसहगोठ्ठमज्झम्मि’ ख
  3. ‘जणेति’ क ‘जणति’ ख
  4. ‘फअंस’ क ‘फंस पहग्घ’ ख
  5. ‘करअलाठ्ठविमुक्का’ क
  6. ‘नवतिणंकुर’ क ख
  7. ‘पसाहिआइ’ क ख
  8. ‘पाउसलच्छीए’ क ख
  9. ‘विंझो’ ख
  10. ‘एते चत्वारोऽपि’ क, ‘त एतेऽपि चत्वारो’ क