577
नीवीबन्धवदागतं शिथिलतामाभाषमाणे ततो मानेनापगतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ १५ ॥’

अत्र बलवभ्द्यां प्रियप्रेमानुनयाभ्यां ह्रीरोषयोरुपशमः क्रियते ॥

रतावेव रोषरूपरसस्य शेषो यथा—

‘एष्यत्युत्सुकमागते 422विचलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं423 क्षणाच्चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ १६ ॥’

अत्र कस्याश्चिद्बलवता प्रेम्णोन्मूलितस्यापि मानस्य 424शेषोऽनुवर्तते ।

त एते 425भावादयो दशापि रसप्रकारा हासादिष्वपि 426प्रायो दृश्यन्ते । ग्रन्थगौरवभयात्क्व427चित्क्वचिदुदाह्रियन्ते ॥

तत्र

428न्यङ्गव्रीडादिभिश्चेतोविकारो हास उच्यते ।

तद्रूपेण रसस्य भावो यथा—

‘कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् ।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥ १७ ॥’

अत्र 429राधाया हरिन्यङ्गाद्, हरेस्तु व्रीडातो हासस्य सत्तामात्रं प्रतीयते ॥

  1. ‘विवलितं’ क ख
  2. ‘बाष्पाम्बुपूर्णेक्षणं’ क 'बाष्पाम्बुपूर्णं क्षणं’ ख
  3. ‘शेषेऽनुवर्तते’ क
  4. ‘भावा दशापि’ क
  5. ‘प्रायशो’ ख
  6. ‘न्न क्वचिदुदाह्रियन्ते’ ख
  7. ‘न्यङ्गः क्रीडादिभिः’ क, ‘व्यङ्गक्रीडादिभिः’ ख, सोल्लवचो न्यङ्गवाच्यम्
  8. ‘राधया व्यङ्गितस्य’ ख