579 पूर्वरङ्गपर्यवसायित्वेनानुद्दीपनविभावत्वादनुत्साहानुभावत्वाच्च नायमनुबन्धो निष्पत्तिः प्रकर्षो वा भवति ॥

भयं चित्तस्य वैक्लव्यं रौद्रादिजनितं विदुः ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘मन्त्रान्मृत्युजितो जपद्भिरसकृध्द्यायद्भिरिष्टान्सुरान् शुष्यत्तालुभिराकुलाकुलपदैर्निर्वाग्भिरुत्कम्पिभिः ।
अध्वन्यैरिह जीवितेशमहिषव्याधूम्रधूमाविला लङ्घ्यन्ते करिमांसघस्मर435रणत्कौलेयकाः पल्लयः ॥ २१ ॥’

अत्र यद्यपि पल्लीनामालम्बनत्वम्, 436तद्विशेषणयोरुद्दीपनत्वम्, मन्त्रजपादेरनुभावत्वम्, तालुशोषादीनां व्यभिचारित्वमिति विभावानुभावव्यभिचारिसंयोगोऽस्ति, तथापि मन्त्रजपेष्टदेवतानुध्यानयोर्लङ्घनोपायपरत्वान्न भयरूपेण 437रसस्य निष्पत्तिः । अध्वन्यानां हि तन्निष्पत्तावल्पसत्त्वतया स्तम्भमोहमूर्च्छामरणादिभिरुपायप्रयोगो न घटते ॥

जुगुप्सा गर्हणार्थानां दोषसंदर्शनादिभिः ॥ १४१ ॥

तद्रूपेण रसस्यानुगमो यथा—

438हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य गात्रमसि निर्भरगर्भखिन्नसीता- प्रवासनपटोः करुणा कुतस्ते ॥ २२ ॥’

अत्र यद्यपि द्विजशिशोर्जीवनाय मुनिरपि शूद्रो वध्य इति न रामस्यात्मकर्मनिन्दा तथाप्यनपकारिणं439 जिघांसतो 440घृणानुवर्तत एव । सीता-

  1. ‘रणात्कौलेयकाः’ क , ‘रुणत्कौलेयकाः’ ग घ
  2. ‘न तदिशेषणयोः’ ख
  3. ‘रसनिष्पत्तिः’ क
  4. ‘रे हस्त’ क ख
  5. ‘प्यनयकारिणं’ ख
  6. ‘घृणा प्रवर्त्तत इति सीतापरित्याग’ क ख