580 परित्यागविषयत्वेनैवात्र जुगुप्सानुगमो ग्रहीतव्यः । 441शम्बुकविषये पुनरस्या जन्ममात्रमेवेति ॥

विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः ।

तद्रूपेण 442रसनिष्पत्तिर्यथा—

‘कृष्णेनाम्ब गतेन 443रन्तुमसकृन्मृद्भक्षिता स्वेच्छया सत्यं कृष्णं क एवमाह 444मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति 445विकासिते च वदने दृष्ट्वा समस्तं जग- न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥ २३ ॥’

अत्र शिशोर्मुंखे जगद्दर्शनमालम्बनविभावः, तत्सामग्र्यशैशवाद्या446लोचनमुद्दीपनविभावः, विस्मयवशं जगामेत्यनेनानुपात्ता अपि सर्वे संचा447रिणोऽनुभावाश्च गृह्यन्ते ॥

स्तम्भश्चेष्टाप्रतीघातो भयरागामयादिभिः ॥ १४२ ॥

तद्रूपेण रसस्य पुष्टिर्यथा—

‘तं ताण448 हअच्छाअं णिच्चललोअणसिहं पउत्थपआवं ।
आलेक्खपईवाणिव णिअअं पअइचडुलत्तणं पि विअलिअं ॥ २४ ॥’
[तत्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् ।
आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् ॥]

अयं च पुष्टोऽपि सात्त्विकत्वात् सदैवान्यानुयायीति नानुभावादिभिरनुबध्यते ॥

हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ।
  1. ‘शम्बूकविषये’ क
  2. ‘रसस्य जन्म यथा’ क ख
  3. ‘रन्तुमधुना’ क ख
  4. ‘मुशली’ क ख
  5. ‘विदारिते तु वदने’ क ख
  6. ‘शैशवाद्यालोकन’ क ख
  7. ‘सर्वे संचारिणो’ इत्यस्य स्थाने ‘केवलं संचारिणः’ क ख
  8. ‘तं ताणं’ ख