581

तद्रूपेण रसस्य जन्म यथा—

‘करिमरि अआलगज्जिरजलआसणिपउणपडिरओ एसो ।
पइणो धणुरवकंखिणि रोमंचं किं मुहा वहसि ॥ २५ ॥’
[बन्दि अकालगर्जनजलदाशनिपतनप्रतिरव एषः ।
पत्युर्धनूरवाकाङ्क्षणशीले रोमाञ्च किं मुधा वहसि ॥]

अस्यापि सात्त्विकत्वादन्यानुबन्धादयो न जायन्ते ।

मदप्रमदपीडादेर्वैस्वर्यं गद्गदं विदुः ।

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘पिपिप्रिय ससस्वयं मुमुमुखासवं देहि मे ततत्यज दुदुद्रुतं भभभभाजनं काञ्चनम् ।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्येयत ॥ २६ ॥’

449अत्रापि सात्त्विकत्वान्निष्पन्नो नान्यैरनुबध्यते ॥

वप्रुर्जलोद्गमः खेदो रतिघर्मश्रमादिभिः ॥ १४३ ॥

तद्रूपेण रसस्य जन्म यथा—

‘हिमव्यपायाद्विशदाधराणामा450पाण्डुरीभूतमुखच्छवीनाम् ।
खेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं 451चित्रविशेषकेषु ॥ २७ ॥’

अत्रापि पूर्ववदन्यानुषङ्गो न भवति ॥

रागरोषभयादिभ्यः कम्पो गात्रस्य वेपथुः ।

तद्रूपेण रसस्य जन्म यथा—

‘मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
  1. ‘अयमपि’ क ख
  2. ‘पाण्डरीभूत’ ख
  3. ‘पत्त्रविशेषकेषु’ क ख