582
अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ २८ ॥’

अयमपि प्राग्वदेवान्यैर्नानुगम्यते452

विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ॥ १४४ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘सहि 453साहसु तेण समं अहं पि किं णिग्गआ 454पहाअम्मि ।
अण्णचिअ दीसइ जेण दप्पणे कावि सा सुमुहो ॥ २९ ॥’
[सखि साधय तेन सममहमपि किं निर्गता प्रभाते ।
अन्यैव दृश्यते येन दर्पणे कापि सा सुमुखी ॥]

अयमपि नान्यैरनुबध्यते ॥

अश्रु नेत्रोद्गतं वारि दुःखशोकप्रहर्षजम् ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्ति बाष्सं कुरु स्थिरतया शिथिलानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ ३० ॥’

अत्र बाष्पशव्देन लोचनाश्रयमश्रूच्यते न कण्ठाद्याश्रयो दुःखावेशः । यथा—‘विललाप स बाप्पगद्गदम्', ‘ 455मुहुर्मग्नः कण्ठे तरलयति बाष्पः स्तनतटीम्’ इत्यादि456

प्रलयस्तीव्रदुःखादेरिन्द्रियास्तमयो मतः ॥ १४५ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ ३१ ॥’
  1. ‘नान्यैरनुगम्यते’ क ख
  2. ‘सहि साहसं तेण’ क
  3. ‘पहअम्मि’ ख
  4. ‘मुहुर्लग्नः कण्ठे’ क ख
  5. ‘इति’ ख