582
अन्यापि किं न सखि भाजनमीदृशानां
वैरी न चेद्भवति वेपथुरन्तरायः ॥ २८ ॥’
अयमपि प्राग्वदेवान्यैर्नानुगम्यते452 ।
विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ॥ १४४ ॥
तद्रूपेण रसस्य निष्पत्तिर्यथा—
[सखि साधय तेन सममहमपि किं निर्गता प्रभाते ।
अन्यैव दृश्यते येन दर्पणे कापि सा सुमुखी ॥]
अयमपि नान्यैरनुबध्यते ॥
अश्रु नेत्रोद्गतं वारि दुःखशोकप्रहर्षजम् ।
तद्रूपेण रसस्यानुबन्धो यथा—
‘उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्ति
बाष्सं कुरु स्थिरतया शिथिलानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति ॥ ३० ॥’
अत्र बाष्पशव्देन लोचनाश्रयमश्रूच्यते न कण्ठाद्याश्रयो दुःखावेशः । यथा—‘विललाप स बाप्पगद्गदम्', ‘ 455मुहुर्मग्नः कण्ठे तरलयति बाष्पः स्तनतटीम्’ इत्यादि456 ॥
प्रलयस्तीव्रदुःखादेरिन्द्रियास्तमयो मतः ॥ १४५ ॥
तद्रूपेण रसस्य निष्पत्तिर्यथा—
‘तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ ३१ ॥’