557
अनुभावादिहेतूंस्तान्वदन्ति व्यभिचारिणः ॥ २१ ॥
जनित्वा ये न जायन्ते तेऽथवा व्यभिचारिणः ।
स्मृत्यादयो हि प्रेमादौ भवन्ति न भवन्ति च ॥ २२ ॥
रतौ संचारिणः सर्वान् गर्वस्नेहौ 273धृतिं मतिम् ।
स्थास्नूनेवोद्धतप्रेयःशान्तोदात्तेषु जानते ॥ २३ ॥
संस्कारपाटवादिभ्योऽनुभावं वा निजाश्रये ।
संचारिणं वा जनयन् सात्त्विकं वा स जायते ॥ २४ ॥
उद्दीपनविभावेभ्यः स्मृतिहेतौ पटीयसि ।
अनुबन्धोऽनुभावादेरनुबन्धोऽस्य274 कथ्यते ॥ २५ ॥
विभावस्यानुभावस्य सात्त्विकव्यभिचारिणोः ।
संयोगे 275तस्य निष्पत्तिमात्रं 276निष्पत्तिरुच्यते ॥ २६ ॥
विषयाश्रयसंस्कारगुणप्रकृतिपाटवैः ।
दीपनातिशयैश्चास्य प्रकर्षः पुष्टिरुच्यते ॥ २७ ॥
तुल्यकालबलोत्पत्तिहेतौ भावान्तरोदये ।
संसर्गस्तस्य यस्तेन संकरः स निगद्यते ॥ २८ ॥
रसान्तरतिरस्कारादन्यद्रागाच्च तस्य यः ।
भवत्यपचयो वृद्धेस्तद्ध्रासं तं प्रचक्षते ॥ २९ ॥
हीनपात्रेषु तिर्यक्षु नायकप्रतियोगिषु ।
गौणेष्वेव पदार्थेषु तमाभासं विजानते277 ॥ ३० ॥
बलवत्सूपजातेषु प्रतिकूलेषु हेतुषु ।
सर्वात्मना समुच्छेदः प्रशमस्तस्य वर्ण्यते ॥ ३१ ॥
आश्रयात्प्रकृतेर्वापि 278संस्कारस्थैर्यतोऽपि वा ।
  1. ‘गर्वस्नेहैर्धृतिं’ ख
  2. ‘अनुबन्धः स’ ख
  3. रसस्य
  4. ‘निष्पत्तिरिष्यते’ ख
  5. ‘प्रचक्षते’ घ
  6. ‘संसारस्थैर्यतोऽपि वा’ घ