583

अत्र मोहशब्देन मूर्च्छोच्यते, न वक्ष्यमाणलक्षणो मोहः ॥

स्मृतिः पूर्वानुभूतार्थविषयं ज्ञानमुच्यते ॥ १४६ ॥

तद्रूपेण रसस्यानुबन्धो यथा—

‘इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं 457बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ३२ ॥’

अत्र सविशेषा स्मृतिरिच्छया वागारम्भेण चानुबध्यते । 458निष्पत्त्यादयः पुनरस्या रत्यादिनिष्पत्तिष्वेव द्रष्टव्याः । 459रत्यादयोऽस्मृतिमूलत्वात्तत्प्रकर्षापकर्षावनुवर्तन्ते ॥

ऊहो वितर्क इत्युक्तः पदार्थेषु यथामति ।

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘चित्ते निवेश्य परिकल्पितसत्त्वयोगा460- न्रूपोच्चयेन 461घटिता मनसा कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ३३ ॥’

सोऽयमसत्यः सत्यो वा स्मृतिज्ञानचिन्तनादिद्वारेण निर्णयान्तो निष्पन्न इत्युच्यते ॥

उत्कण्ठेष्टानवाप्तौ योऽभिलाषः स्यात्तदाप्तये ॥ १४७ ॥

तद्रूपेण रसस्य निष्पत्तिह्रासौ यथा—

‘यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठ्या 462कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
  1. ‘बाष्पप्रकर’ क ख
  2. ‘तिष्ठेत्यादयः’ ख
  3. ‘रत्यादयो हि स्मृतिमूलतत्प्रकषापकर्षावनुवर्तन्ते’ क ख
  4. ‘सत्त्वयोगात्’ क ख
  5. ‘विधिना विहिता कृताङ्गी’ पाठः
  6. ‘बाष्पस्तम्भितकण्ठवृत्तिवचनम्’ ख