583
अत्र मोहशब्देन मूर्च्छोच्यते, न वक्ष्यमाणलक्षणो मोहः ॥
स्मृतिः पूर्वानुभूतार्थविषयं ज्ञानमुच्यते ॥ १४६ ॥
तद्रूपेण रसस्यानुबन्धो यथा—
‘इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता
स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं 457बाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ३२ ॥’
अत्र सविशेषा स्मृतिरिच्छया वागारम्भेण चानुबध्यते । 458निष्पत्त्यादयः पुनरस्या रत्यादिनिष्पत्तिष्वेव द्रष्टव्याः । 459रत्यादयोऽस्मृतिमूलत्वात्तत्प्रकर्षापकर्षावनुवर्तन्ते ॥
ऊहो वितर्क इत्युक्तः पदार्थेषु यथामति ।
तद्रूपेण रसस्य निष्पत्तिर्यथा—
सोऽयमसत्यः सत्यो वा स्मृतिज्ञानचिन्तनादिद्वारेण निर्णयान्तो निष्पन्न इत्युच्यते ॥
उत्कण्ठेष्टानवाप्तौ योऽभिलाषः स्यात्तदाप्तये ॥ १४७ ॥
तद्रूपेण रसस्य निष्पत्तिह्रासौ यथा—
‘यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठ्या
462कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।