584
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु463 तनयाविश्लेषदुःखैर्नवैः ॥ ३४ ॥’

अत्र विभावानुभावव्यभिचारिसंयोगात् प्रीतिरिवोत्कण्ठापि तदनुषङ्गिणी निष्पन्ना उत्तरार्धप्रतिपाद्येन 464निषेधेनैव विस्मयादिनाभिभूयमाना ह्रास इत्युच्यते । प्रकर्षश्चास्या ममारण्यौकस इत्यनेन निवार्यते ॥

प्रयत्नपूर्विकार्थेषु स्मृतिश्चिन्तेति 465चोच्यते ॥ १४८ ॥

तद्रूपेण रसस्य प्रकर्षो यथा—

‘चिन्ताणिअदइअसमागमम्मि कअमण्णुआइं466 मरिऊण ।
सुण्णं कलहाअन्ती 467सहीहिँ रुण्णा ण468 ओ हसिआ ॥ ३५ ॥’
[चिन्तानीतदयितसमागमे कृतमन्युकानि स्मृत्वा ।
शून्यं कलहायमाना सखीभी रुदिता न वा हसिता ॥]

अत्र सखीरोदनेन शून्यकलहः, शून्यकलहेन साक्षात्कारः, साक्षात्कारेण चिन्ता, चिन्तया तु मूलभूता रतिः प्रकृष्यते ॥

आत्मप्रकाशनपरा चेष्टा चपलतोच्यते ॥ १४९ ॥

तद्रूपेण रसस्य जन्म यथा—

‘कश्चित्कराभ्यामुपगूढनालमालोलपत्त्राभिहतद्विरेफम् ।
रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥ ३६ ॥’

469अत्र कश्चिल्लीलारविन्दभ्रमणचेष्टया 470इन्दुमत्यै तिष्ठते ॥

शास्त्रोक्तार्थानुसंधानादर्थनिर्धारणं मतिः ।
  1. ‘न’ ख
  2. ‘तथाविधेनैव’ ख
  3. ‘कथ्यते’ क ख
  4. ‘मण्णुआइ’ ख
  5. ‘सहीहि’ ख
  6. ‘नावहसिआ’ घ
  7. ‘अत्र लीलारविन्दभ्रमणचेष्टया’ क ख
  8. ‘कश्चिदिन्दुमत्यै’ क ख