585

तद्रूपेण रसस्यानुबन्धो यथा—

‘असंशयं क्षत्त्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ ३७ ॥’

अत्र पूर्वार्धोक्तार्थनिर्धारणरूपा मतिरुत्तरार्धेनानुबध्यते ॥

गर्वोऽन्येषाम471वज्ञानमात्मसंभावनादिभिः ॥ १५० ॥

तद्रूपेण रसस्य पुष्टिर्यथा—

‘धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ ३८ ॥’

अत्र कर्णस्यात्मसंभावनयाश्वत्था472 मन्यवज्ञा प्रकृष्यते ॥

अहेतुरनिवर्ती473 च स्नेहश्चित्तार्द्रता मता ।

तद्रूपेण 474रसस्य निष्पत्तिर्यथा—

‘अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैतत् ।
कां निर्वृतिं चेतसि तस्य कुर्या- द्यस्यायम475ङ्गात्कृतिनः प्ररूढः ॥ ३९ ॥’

अत्र दुष्यन्तस्य 476सत्त्वदमनदर्शनादुत्पन्नस्तदङ्गस्पर्शसुखादिभिरुद्दीपितः स्पृहामतिवितर्कवागारम्भैः संसृज्यमानः स्नेहो निष्पद्यते ॥

अभीष्टार्थस्य संप्राप्तौ स्पृहापर्याप्तता धृतिः ।
  1. ‘अभिज्ञानम्’ घ
  2. ‘अवज्ञानम्’ क ख
  3. ‘अनिवर्त्यां च’ क ख
  4. ‘रसनिष्पत्तिर्यथा’ घ
  5. ‘यस्यायमङ्कात्कृतिनः प्ररूढः’
  6. सत्त्वदमनः शकुन्तलातनयः