585
तद्रूपेण रसस्यानुबन्धो यथा—
‘असंशयं क्षत्त्रपरिग्रहक्षमा
यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु
प्रमाणमन्तःकरणप्रवृत्तयः ॥ ३७ ॥’
अत्र पूर्वार्धोक्तार्थनिर्धारणरूपा मतिरुत्तरार्धेनानुबध्यते ॥
गर्वोऽन्येषाम471वज्ञानमात्मसंभावनादिभिः ॥ १५० ॥
तद्रूपेण रसस्य पुष्टिर्यथा—
‘धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ ३८ ॥’
अत्र कर्णस्यात्मसंभावनयाश्वत्था472 मन्यवज्ञा प्रकृष्यते ॥
अहेतुरनिवर्ती473 च स्नेहश्चित्तार्द्रता मता ।
तद्रूपेण 474रसस्य निष्पत्तिर्यथा—
‘अनेन कस्यापि कुलाङ्कुरेण
स्पृष्टस्य गात्रेषु सुखं ममैतत् ।
कां निर्वृतिं चेतसि तस्य कुर्या-
द्यस्यायम475ङ्गात्कृतिनः प्ररूढः ॥ ३९ ॥’
अत्र दुष्यन्तस्य 476सत्त्वदमनदर्शनादुत्पन्नस्तदङ्गस्पर्शसुखादिभिरुद्दीपितः स्पृहामतिवितर्कवागारम्भैः संसृज्यमानः स्नेहो निष्पद्यते ॥
अभीष्टार्थस्य संप्राप्तौ स्पृहापर्याप्तता धृतिः ।