586
तद्रूपेण 477रसस्य प्रकर्षो यथा—
अत्र वत्सराजस्य सर्वात्मना मनोरथसिद्धयो धृतेः प्रकर्षमावहन्ति ॥
चेतोनिमीलनं व्रीडा480न्यङ्गरागस्तवादिभिः ॥ १५१ ॥
‘अक्षुद्रारिकृताभिमन्युनिध483नप्रोद्भूततीव्रक्रुधः
पार्थस्याकृतशात्रवप्रतिकृतेरन्तःशुचा मुह्यतः ।
कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो
हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद्बहिः ॥ ४१ ॥’
अत्रार्जुनस्यान्यायेनाभिमन्युवधादुद्भूतौ दीप्तावेव क्रोधशोका484वुद्भूतविप्रतीकारोत्थया तथाविधयैव व्रीडया संकीर्येते । तथाहि क्रोधशोकयोरनुभावभूता दृष्टयो वाचश्च व्रीडाजडा485 इति विशेषणानि संबध्यन्ते ॥
अवहित्थं तु लज्जादेर्हर्षाद्याकारगोपनम् ॥ १५२ ॥
तद्रूपेण रसस्यानुबन्धो यथा—
‘एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्त्राणि गणयामास पार्वती ॥ ४२ ॥’