587

अत्र—

‘प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ॥ ४३ ॥’

486इत्यादेर्देवर्षिवाक्यादुद्भूतः487 प्रहर्षाकारो गुरुसंनिधौ लज्जितया लीलाकमलपत्रगणनव्याजेन488 गौर्या गोप्यते ॥

सुखदुःखादिजनितो मोहश्चित्तस्य मूढता ।

तद्रूपेण 489रसनिष्पत्तिर्यथा—

‘कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना- द्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः 490कोऽयं का वयमत्र किं नु सुरतं स्वल्पापि मे न स्मृतिः ४४’

अत्र स्थायिनी रतिर्मोहनिष्पत्त्या प्रकृष्यते ॥

संमोहानन्दसंभेदो मदिरादिकृतो मदः ॥ १५३ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘घूर्णमाननयनं स्खलत्कथं खेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ ४५ ॥’

अत्र नयनघूर्णनाकारणस्मितादयः संमोहानन्दसंभेदा491दुद्भवन्तो मदं निष्पादयन्ति ।

मनःप्रसादो हर्षः स्यादिष्टावाप्तिस्तवादिभिः ।
  1. ‘इत्यादिदेवर्षिवाक्यादुद्भूतः’ ध, ‘इत्यादेर्मुनिवाक्यादुद्भूतः’ क ख
  2. ‘उद्भूतप्रहर्षाकारो’ ख
  3. ‘गणनेन’ क ख
  4. ‘रसस्य निष्पत्तिः’ ख
  5. ‘कोऽसौ कास्मि रतं नु किं कथमिति’ क ख
  6. ‘संभेदा उद्भवन्तो’ ख