588

तद्रूपेण 492रसस्य प्रकर्षो यथा—

‘जातस्य ते पितुरपीन्द्रजितो निहन्तु- र्वत्सस्य वत्स कति नाम दिनान्यमूनि ।
तस्याप्यपत्यमधितिष्ठति 493वीरधर्मे दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ ४६ ॥’

अत्र 494दशरथसुहृदः सुमन्त्त्रसारथेः 495प्रभुकुलस्य प्रतिष्ठामाशंसतस्तत्सूनुमिन्द्रजितो हन्तारं पश्यतो मनोरथावाप्त्या हर्षो निष्पन्नस्तदपत्येऽपि वीरधर्ममाचरिष्णौ प्रकृष्टो दिष्ट्येत्यव्ययेन सूच्यते ॥

क्रोधः 496कृतापराधेषु स्थिरोऽमर्षत्वमश्नुते ॥ १५४ ॥

तद्रूपेण रसस्य प्रकर्षो यथा—

‘लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः 497प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ ४७ ॥’

अत्र 498भीमसेनस्य धार्तराष्ट्रेषु स्वस्था इति नाम्नोऽप्य499सहनात् लाक्षागृहाद्यपकारजन्मामर्षः 500प्रतीयते ॥

असूयान्यगुणर्द्धीनामौद्धत्यादसहिष्णुता ।

तद्रूपेण रसस्य जन्म यथा—

‘वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीनिधनेऽप्यखण्डयशसो लोके महान्तो हि ते ।
  1. ‘रसनिष्पत्तिर्यथा’ घ
  2. ‘वीरधर्मम्’ घ
  3. ‘दशरथस्य सुहृदः’ घ
  4. ‘प्रभुकुलप्रतिष्ठा’ ख
  5. ‘कृतापकारेघु’ घ
  6. ‘प्रकृत्य’ घ
  7. ‘भीमस्य’ घ
  8. ‘प्यसहमानात्’ घ
  9. ‘प्रकृष्यते’ घ