588
तद्रूपेण 492रसस्य प्रकर्षो यथा—
‘जातस्य ते पितुरपीन्द्रजितो निहन्तु-
र्वत्सस्य वत्स कति नाम दिनान्यमूनि ।
तस्याप्यपत्यमधितिष्ठति 493वीरधर्मे
दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ ४६ ॥’
अत्र 494दशरथसुहृदः सुमन्त्त्रसारथेः 495प्रभुकुलस्य प्रतिष्ठामाशंसतस्तत्सूनुमिन्द्रजितो हन्तारं पश्यतो मनोरथावाप्त्या हर्षो निष्पन्नस्तदपत्येऽपि वीरधर्ममाचरिष्णौ प्रकृष्टो दिष्ट्येत्यव्ययेन सूच्यते ॥
क्रोधः 496कृतापराधेषु स्थिरोऽमर्षत्वमश्नुते ॥ १५४ ॥
तद्रूपेण रसस्य प्रकर्षो यथा—
‘लाक्षागृहानलविषान्नसभाप्रवेशैः
प्राणेषु वित्तनिचयेषु च नः 497प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः
स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ ४७ ॥’
अत्र 498भीमसेनस्य धार्तराष्ट्रेषु स्वस्था इति नाम्नोऽप्य499सहनात् लाक्षागृहाद्यपकारजन्मामर्षः 500प्रतीयते ॥
असूयान्यगुणर्द्धीनामौद्धत्यादसहिष्णुता ।
तद्रूपेण रसस्य जन्म यथा—
‘वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते
सुन्दस्त्रीनिधनेऽप्यखण्डयशसो लोके महान्तो हि ते ।