589
यानि त्रीणि 501कुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुदमने502 तत्राप्यभिज्ञो जनः ॥ ४८ ॥’

अत्र यद्यपि सोल्लुण्ठदोषकीर्तनादिभिर्जुगुप्सा निष्यद्यते तथापि न तया स्वनिष्पत्तिहेतुरसूया संकीर्यते ॥

ईर्षामाहुः समानेषु मानदानाद्यमर्षणम्503 ॥ १५५ ॥

तद्रूपेण रसस्य प्रकर्षो यथा—

‘हुं504 णिल्लज्ज समोसर तं च्चिअ505 अणुणेसु जाइ दे एअं ।
506पाअग्गंगुट्ठालत्तएण तिलअं विणिम्मविअं ॥ ४९ ॥’
[हुं निर्लज्ज समपसर तामेवानुनय यस्यास्त एतत् ।
पादाग्राङ्गुष्ठालक्तकेन तिलकं विनिर्मितम् ॥]

अत्र कस्याश्चित् प्रेयसि सपत्नीं प्रसादयितुं गते तन्मानममृष्यमाणायाः समुत्पन्नेर्ष्या प्रियानुनयादिभिर्भृशायमानतया निष्पन्नालक्तकतिलकानुमेयैस्तत्पादपतनादिभिरुद्दीप्ता हुंकाराक्षेपभर्त्सनप्रतिभेदाविनाभूतैर्भ्रूभङ्गताडनाङ्गक्षेपवेपथुस्वेदगद्गदादिभिः संसृज्यमाना प्रकृष्यते ॥

विषादश्चेतसो ग्लानिरुपायाभावनाशयोः ।

तद्रूपेण रसस्य प्रकर्षो यथा—

‘व्यर्थं यत्र कपीन्द्रसख्यमपि मे क्लेशः507 कपीनां वृथा प्रज्ञां जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि ।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्त्रिणामविषयस्तत्र प्रिया क्वापि मे ॥ ५० ॥’
  1. ‘त्रीण्यकुतोमुखानि’ क, ‘त्रीण्यकुतोभयानि’ क टिप्पण्याम्, ‘त्रीणि कुतोसुखानि’ ख
  2. ‘इन्द्रसूनुदलने’ ग घ
  3. ‘मानदानाद्यमर्षणात्’ ग
  4. ‘हुम्’ घ नास्ति
  5. ‘विअ’ ख
  6. ‘पाअग्ग’ ख
  7. ‘वीर्य हरीणां वृथा’ क ख