अत्र यद्यपि सोल्लुण्ठदोषकीर्तनादिभिर्जुगुप्सा निष्यद्यते तथापि न तया स्वनिष्पत्तिहेतुरसूया संकीर्यते ॥
ईर्षामाहुः समानेषु मानदानाद्यमर्षणम्503 ॥ १५५ ॥
तद्रूपेण रसस्य प्रकर्षो यथा—
[हुं निर्लज्ज समपसर तामेवानुनय यस्यास्त एतत् ।
पादाग्राङ्गुष्ठालक्तकेन तिलकं विनिर्मितम् ॥]
अत्र कस्याश्चित् प्रेयसि सपत्नीं प्रसादयितुं गते तन्मानममृष्यमाणायाः समुत्पन्नेर्ष्या प्रियानुनयादिभिर्भृशायमानतया निष्पन्नालक्तकतिलकानुमेयैस्तत्पादपतनादिभिरुद्दीप्ता हुंकाराक्षेपभर्त्सनप्रतिभेदाविनाभूतैर्भ्रूभङ्गताडनाङ्गक्षेपवेपथुस्वेदगद्गदादिभिः संसृज्यमाना प्रकृष्यते ॥
विषादश्चेतसो ग्लानिरुपायाभावनाशयोः ।
तद्रूपेण रसस्य प्रकर्षो यथा—
‘व्यर्थं यत्र कपीन्द्रसख्यमपि मे क्लेशः507 कपीनां वृथा
प्रज्ञां जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि ।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रेरपि पत्त्रिणामविषयस्तत्र प्रिया क्वापि मे ॥ ५० ॥’