590

अत्र सीतासमागमविषये रामस्य दृष्टावदानसुग्रीवसख्यादेरुपायस्याभावाद्विषादः प्रकृष्यते ॥

सत्त्वत्यागादनुत्कर्षो वाक्यादेर्दैन्यमुच्यते ॥ १५६ ॥

तद्रूपेण रसस्यानुबन्धो यथा—

‘अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां भावप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ ५१ ॥’

अत्र स्नेहप्रभवं पादत्रयोक्तमर्थितादैन्यं तुरींयपादोपक्षिप्तयाच्ञादैन्यान्तरेणानुबध्यते ॥

विदुर्वाग्दण्डपारुष्यमुग्रतामपकारिषु ।

तद्रूपेण रसस्य प्रकर्षो यथा—

‘प्रणयिसखीसलीलपरिहासरसाधिगतै- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ ५२ ॥’

अत्र माधवस्य प्रकृष्टापकारिण्यघोरघण्टे विषये प्रकृष्टमेव वाक्पारुष्यं दण्डपारुष्यं च जायते ॥

त्रासश्चित्तचमत्कार आकस्मिकभयादिभिः ॥ १५७ ॥

तद्रूपेण रसस्य जन्म यथा—

‘परिस्फुरन्मीनविघट्टितो रवः सुराङ्गनास्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ५३’