591

अत्र लोलदृष्टिता कराबधूननं च स्त्रीणां स्वभावभीरुत्वविलासित्वाभ्यामपि भवतीति त्रासाविर्भावेऽप्यसमर्थमिति नानुबन्घो भवति ॥

अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः ।

तद्रूपेण रसस्य प्रकर्षो यथा—

‘सहसा मा साहिज्जउ पिआगमो तीअ विरहकिसिआए ।
अच्चंतपहरिसेण वि जा अ मुआ सा मुआ च्चेअ ॥ ५४ ॥’
[सहसा मा साध्यतां प्रियागमस्तया विरहकृशया ।
अत्यन्तप्रहर्षेणापि या च मृता सा मृतैव ॥]

अत्र विरहिण्याः कार्श्यातिशयमुद्वीक्षमाणायाः कस्याश्चिद्वयस्यायाः स्नेहातिशयात् 'प्रेम पश्यति भयान्यपदेऽपी'ति प्रियागमप्रहर्षातिशयभावेऽप्यसहिष्णुतया तन्मरणशङ्का प्रकृष्यते ॥

विरहादेर्मनस्तापः 508शरीरातङ्कदो गदः ॥ १५८ ॥

तद्रूपेण रसस्य जन्म यथा—

‘स्थितमुरसि विशालं पद्मिनीपत्त्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम् ।
अतिशयपरितापग्लापिताभ्यां यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥ ५५ ॥’

अत्र सागरिकायाः स्तननिहितसरोजिनीदलग्लापनेन वपुःसंतापो निष्पद्यते ॥

बलस्यापचयो ग्लानिराधिव्याधिप्रकर्षभूः ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘किसलयमिव मुग्धं 509बन्घनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
  1. ‘शरीरान्तकदो गदः’ ख
  2. ‘वन्दनाद्विप्रलूनम्’ घ