593
मुकुलयति च नेत्रे सर्वथा सुभ्रु खेदस्त्वयि विलसति तुल्यं 512वल्लभालोकनेन ॥ ५९ ॥’

अत्र मालत्याः पुष्पावचयजन्मा श्रमः, माधवावलोकनजा च रतिः, स्वेदगद्गदाङ्गसादनयनमुकुलैस्तुल्यधर्मिणौ मिथः संकीर्येते ॥

चित्तस्य खेदो निर्वेदस्तत्त्वज्ञानोदयादिभिः ।

तद्रूपेण रसस्य शेषो यथा—

‘जरामरणदौर्गत्यव्याधयस्तावदासताम् ।
मन्ये जन्मैव धीराणां भूयोभूयस्त्त्रपाकरम् ॥ ६० ॥’

अत्र मोक्षायोत्सहमानस्य कस्यचिन्निर्वेदावदमो गम्यते ॥

क्रियास्वपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः ।

तद्रूपेण रसस्य513 निष्पत्तिर्यथा—

‘शिथिलशिथिलं न्यस्य स्वैरं धनुःशिखरे शिरो नयनसलिलैः कुर्वन्मौर्वीलतामपरामिव ।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति ॥ ६१ ॥’

अत्र विरहिणो रामस्य क्रियास्वपाटवं निष्पाद्यते ॥

क्रियाविद्वेष आलस्यं सुखसंविन्मदादिभिः ॥ १६१ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘घरिणिघणत्थण514पेल्लणसुहेल्लि515पडिअस्स होन्त516पहिअस्स ।
517अवसउणङ्गारअवारविट्ठिदिअहा518 सुहावेन्ति ॥ ६२ ॥’
[गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य ।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति ॥]
  1. ‘माधवालोकनेन’ घ
  2. ‘रसनिष्पत्तिः’ घ
  3. ‘पेक्खण’ ध
  4. ‘णिपडिअस्स’ क ख
  5. ‘होन्ति’ क ख
  6. ‘अवसदुणंगर’ ख
  7. ‘दिअसा सुहावेन्ति’ क ख