594

अत्र रतिसुखानुभवाज्जिगमिषोरप्यगच्छत आलस्यं निष्पद्यते ॥

निद्रा व्यापारवैमुख्यमिन्द्रियाणां श्रमादिभिः ।

तद्रूपेण 519रसस्यानुबन्धो यथा—

‘णिद्दालसपरि520घुम्मिरतंसवलन्तद्ध521तारआलोआ ।
कामस्स वि दुव्विसहा दिट्ठिणिवाआ ससिमुहीए ॥ ६३ ॥’
[निद्राल522सपरिघूर्णनशीलतिर्यग्वलदर्धतारकालोकाः ।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः ॥]

अत्र रतिश्रमजागरादिजनितनिद्रालसा523 दृष्टिनिपातास्ता524रकाघूर्णनत्र्यस्रवलनादिभिरनुबध्यन्ते ॥

निद्रादिजनितं सुप्तमिन्द्रियादिनिमीलनम् ॥ १६२ ॥

तद्रूपेण 525रसप्रकर्षो यथा—

‘ओसुअइ दिण्ण526पडिवक्खवेअणं पसिढिलेहिँ अङ्गेहिँ ।
णिव्वत्तिअसुरअरसाणुबंधसुहणिब्भरं527 सोण्हा ॥ ६४ ॥’
[अवस्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः ।
निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा ॥]

अत्र निर्भरपदेनैव प्रकर्षः प्रतिपाद्यते ॥

निद्रापगमहेतुभ्यः प्रबोधश्चेतनागमः ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदींपप्रभाणामात्मव्यापारगुर्वी जनितजललवाजृम्भणैः साङ्गभङ्गैः ।
  1. ‘रसानुबन्धो’ घ
  2. ‘घुण्णिरतं’ ख, ‘घुम्मिरतं ग, ‘घुम्मिरत’ घ
  3. ‘संवलतद्धा’ क
  4. ‘घूर्णनास्रचलनादिभिः’ क, ‘घूर्णनत्र्यस्रचलनादिभिः’ ख
  5. ‘निद्रालसदृष्टिनिपाताः’ क ख
  6. ‘बाह्येन्द्रियनिमीलनम्’ क ख
  7. ‘रसस्य’ ग
  8. ‘पडिवक्खे अणं’ ख
  9. ‘निब्भरं’ क