558
योऽस्यात्यन्तमनुच्छेदः279 स शेष इति शब्द्यते ॥ ३२ ॥
शृङ्गाराद्या रसा ये च ये च शान्तोद्धतादयः ।
ये च रत्यादिभेदास्तान्विशेषानस्य मन्वते ॥ ३३ ॥
विभावश्चानुभावश्च संचारी 280चाश्रयश्च यः ।
ये च लीलादयो यूनां परिशेषः281 स कीर्त्यते ॥ ३४ ॥
आश्रयो यस्य रत्यादिः प्रेमादेरुपजायते ।
विषयो यत्र योषादौ सोऽस्य282 जन्माधिगच्छति ॥ ३५ ॥
आलम्बनविभावः स ज्ञानकारणमुच्यते ।
तेनादरादिरूपेण संस्कारस्तस्य जायते ॥ ३६ ॥
283आदृतः पटुरभ्यस्त आश्रयादेर्गुणेन सः ।
तत्प्रबोधाय माल्यर्तुचन्दनेन्दूदयादयः ॥ ३७ ॥
उद्दीपनविभावास्ते स तैः स्मरति वाञ्छति ।
द्वेष्टि प्रयततेऽवैति मन्यते वक्ति चेष्टते ॥ ३८ ॥
तेऽनुभावास्तदा ये स्युः स्वेदरोमोद्गमादयः ।
हर्षामर्षादयो ये च ज्ञेयाः संचारिणोऽत्र ते ॥ ३९ ॥
स्मृतीच्छायत्नजन्मानो मनोवाक्वायसंश्रयाः ।
विलासा ये वरस्त्रीणां ज्ञेया लीलादयस्तु ते ॥ ४० ॥
लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विव्वोको ललितं तथा ॥ ४१ ॥
विहृतं क्रीडितं केलिरिति स्त्रीणां स्वभावजाः ।
हेलाहावादयश्चान्ये ज्ञेयाः स्त्रीपुंसयोरपि ॥ ४२ ॥
  1. ‘मविच्छेदः’ क ख
  2. ‘वाश्रयश्च’ ख
  3. ‘परिपोषः’ क ख
  4. रत्यादेः
  5. ‘अन्यतः’ क ख