अत्र चालम्बनविभावभूतदेवीमरणादुत्पन्नः शोकः स्थायिभावश्चितानिवेशनहुताशनाङ्गज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमानो वागारम्भानुमेयैर्निर्वेदग्लानिवैवर्ण्यादिभिर्व्यभिचारिभिः संसृज्यमानः करुण इति ज्ञायते ॥