अत्र वसुधाविजयादेरालम्बनविभावादुत्पन्नः स्थाय्युत्साहभावः स्थैर्यधैर्यादिभिरुद्दीपनविभावैरुद्दीप्यमानैः समुत्पन्नेषु वागारम्भानुमीयमानेषु स्मृतिमतिवितर्कादिषु निष्पन्नो वीररससंज्ञया व्यवह्रियते ॥
अत्र चालम्बनविभावभूतदेवीमरणादुत्पन्नः शोकः स्थायिभावश्चितानिवेशनहुताशनाङ्गज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमानो वागारम्भानुमेयैर्निर्वेदग्लानिवैवर्ण्यादिभिर्व्यभिचारिभिः संसृज्यमानः करुण इति ज्ञायते ॥
अत्र दुःशासनालम्बनविभावाय क्रुध्यतो भीमसेनस्य पूर्वमुत्पन्नः क्रोधः स्थायिभावस्तदवाप्तेः स्मर्यमाणसमक्षकृतद्रौपदीनिग्रहकेशकर्षणादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमीयमानेष्वसूयावेगवेपथुश्रमादिषु दुःखात्मकेषु व्यभिचारिषु 531निप्पद्यमानो रौद्र इति निष्पद्यते ॥