596
‘अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः ।
अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ६७ ॥’

अत्र वसुधाविजयादेरालम्बनविभावादुत्पन्नः स्थाय्युत्साहभावः स्थैर्यधैर्यादिभिरुद्दीपनविभावैरुद्दीप्यमानैः समुत्पन्नेषु वागारम्भानुमीयमानेषु स्मृतिमतिवितर्कादिषु निष्पन्नो वीररससंज्ञया व्यवह्रियते ॥

‘यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी ।
साधिशेते कथं देवी हुताशनवतीं चिताम् ॥ ६८ ॥’

अत्र चालम्बनविभावभूतदेवीमरणादुत्पन्नः शोकः स्थायिभावश्चितानिवेशनहुताशनाङ्गज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमानो वागारम्भानुमेयैर्निर्वेदग्लानिवैवर्ण्यादिभिर्व्यभिचारिभिः संसृज्यमानः करुण इति ज्ञायते ॥

‘निगृह्य केशेष्वाकृष्टा कृष्णा येन ममाग्रतः ।
सोऽयं दुःशासनः पापो लव्धः किं जीवति क्षणम् ॥ ६९ ॥’

अत्र दुःशासनालम्बनविभावाय क्रुध्यतो भीमसेनस्य पूर्वमुत्पन्नः क्रोधः स्थायिभावस्तदवाप्तेः स्मर्यमाणसमक्षकृतद्रौपदीनिग्रहकेशकर्षणादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमीयमानेष्वसूयावेगवेपथुश्रमादिषु दुःखात्मकेषु व्यभिचारिषु 531निप्पद्यमानो रौद्र इति निष्पद्यते ॥

‘अंशुकानि प्रवालानि पुष्पं हारादिभूषणम् ।
फलं मधूनि हर्म्याणि शाखा नन्दनशाखिनाम् ॥ ७० ॥’

अत्र शाखिनां प्रवालपुष्पफलशाखासंपन्नं निजं रूपं नन्दनशाखिनां पुनः प्रवालादिस्थाने532ष्वंशुकहारमधुमन्दिराणि तदेतदाश्चर्यम् । अतश्चैतेभ्य आलम्बनविभावेभ्यः कस्यचिद्देवभूयंगतस्य समुत्पन्नो विस्मयः533

  1. ‘निष्पाद्यमानो’ ख
  2. ‘प्रवालादिस्थानेंशुकहार’ क ख
  3. ‘विस्मयस्थायिभावः’ क ख