597 स्थायिभावस्तदीयावयवदर्शनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमेयेषु हर्षरोमोद्गमखेदगद्गदादिषु व्यभिचारिषु निष्पद्यमानोऽद्भुत इत्युच्यते ॥

‘इदं मघोनः कुलिशं धारासंनिहितानलम् ।
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ ७१ ॥’

अत्र महेन्द्रकुलिशाद्धारासंनिहितानलादालम्ब534नविभावात्स्मर्यमाणादपि दैत्यस्त्रीणामुत्पन्नो 535भयस्थायिभावस्तद्विदीर्णदानवमरणस्मरणादिभिरुद्दीपनविभावैरुद्दीप्यमानः 536स्वगर्भपातादिभिरनुभावादिभिस्तदनुमितैश्च स्वेदस्तम्भवेपथुप्रभृतिभिर्व्यभिचारिभिः संसृज्यमानो भयानकरसरूपेण निष्पन्नः केनचिदाख्यायमानोऽपि भयानक इत्याख्यायते ॥

‘पायं पायं तवारीणां शोणितं 537पाणिसंपुटैः ।
कौणपाः सह नृत्यन्ति कबन्धैरन्त्त्रभूषणाः ॥ ७२ ॥’

अत्रालम्बनविभावभूतेभ्यः कौणपेभ्यः कस्यचि538द्रिपुजयशंसिनः पुंस उत्पन्नो जुगुप्सास्थायिभावः शिरश्छेदविगलद्रुधिरघारापरिप्लुत539प्रणर्तितकबन्धकौणपान्त्त्रभूषणशोणितपानादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु 540वागारम्भानुमेयेषु भयावेशशङ्कावहित्थादिषु व्यभिचारिषु निष्पन्नो बीभत्स इति निगद्यते ॥

‘इदमम्लानमानाया लग्नं स्तनतटे तव ।
छाद्यतामुत्तरीयेण नवं नखपदं सखि ॥ ७३ ॥’
  1. ‘संनिहितानलालम्बन’ ख
  2. ‘भयस्थायिभावः’ क ख
  3. ‘सगर्भपातादिभिः’ ध
  4. ‘करसम्पुटैः’ क ख
  5. ‘रिपुविजयाशंसिनः’ ख
  6. ‘प्रवर्तित’ ख
  7. ‘व्यभिचारादिषु’ क