598

अत्र काचित् सखीं पूर्वं भर्तरि 541गृहीतमानां तेनैव नख542पदाङ्कितस्तनीमालम्बनविभावभूतामुपलभमानायाः कस्याश्चित्सख्या उत्पन्नो हासः स्थायिभावस्तदीयमानपरिग्रहस्मरणादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमितेषु शङ्कावहित्थगद्गदादिव्यभिचारिषु 543निष्पद्यमानो हास्यशब्देनाभिधीयते ॥

‘यदेव रोचते मह्यं तदेव कुरुते प्रिया ।
इति वेत्ति न 544जानाति 545तत्प्रियं यत्करोति सा ॥ ७४ ॥’

अत्र वत्सलप्रकृतेर्धीरतया ललितनायकस्य 546प्रियालम्बनविभावादुत्पन्नः 547स्नेहस्थायिभावो विषयसौकुमार्यात्मप्रकृत्यादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानैर्मोह548धृतिस्मृत्यादिभिर्व्यभिचारिभावैरनुभावैश्च549 संसृज्यमानो निष्पन्नः प्रेयानिति प्रतीयते ॥

रतिप्रीत्योरपि चायमेव मूलप्रकृतिरिष्यते । यदित्थमाहुः—

‘अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्मर्माणि सीव्यति ॥ ७५ ॥
सर्वाः संपत्तयस्तस्य संतुष्टं यस्य मानसम् ।
उपानद्गृढपादस्य ननु 550चर्मास्तृतैव भूः ॥ ७६ ॥’

अत्र कस्यचिदुपशान्तप्रकृतेर्धीरशा551न्तनायकस्य यथोपनतमनोनुकूलदारादिसंपत्तेरालम्बनविभावभूतायाः समुत्पन्नो धृतिस्थायिभावो वस्तुतत्त्वालोचनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमान552स्मृत्यादिभिर्व्यभि-

  1. ‘प्रगृहीतमानां’ क ख
  2. ‘पदाङ्कितस्तनाम्’ ख
  3. ‘निष्पाद्यमानो’ क
  4. ‘जानामि’ ख
  5. ‘यत्प्रियं तत्करोति सा’ क ख
  6. ‘प्रियानुभाव’ क ख
  7. ‘स्नेहस्थायिभावो’ क
  8. ‘मोहमतिधृतिस्मृति’ क ख
  9. ‘प्रशंसादिभिः’ इत्यधिकः पाठः क ख
  10. ‘चर्मावृतैव’ क ख
  11. ‘धीरप्रशान्त’ क ख
  12. ‘स्मृतिमत्यासत्या’ क 'स्मृतिमत्यादिभिः’ ख