599 चारिभावैर्वागारम्भादिभिरनुषज्यमानो निष्पन्नः शान्त इत्यभिगीयते553

अन्ये पुनरस्य शमं प्रकृतिमामनन्ति स तु धृतेरेव विशेषो भवति ॥

‘साधारण्यान्निरातङ्कः कन्यामन्योऽपि याचते ।
किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः ॥ ७७ ॥’

अत्र रामस्योदात्तप्रकृतेर्निसर्गत एव तत्त्वाभिनिवेशिनी मतिर्नाकृत्यविषये प्रवर्तते, न च प्रवृत्तोपारमति, सा च सीतेयं मम स्वीकारयोग्येत्येवंरूपेण 554प्रवृत्ता रावणप्रार्थनालक्ष्मणप्रोत्साहनाभ्यामुद्दीप्यमाना समुपजायमानचिन्तावितर्कव्रीडावहित्थस्मृत्यादिभिः कालोचितोत्तरानुमीयमानैश्च विवेकचातुर्यौदार्यधैर्यादिभिः 555संसृज्यमानोदात्तरसरूपेण निष्पद्यते ॥

‘अपकर्ताहमस्मीति मा ते मनसि भूद्भयम् ।
विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति ॥ ७८ ॥’

अत्र मयास्यापकारः कृत इति 556यच्चेतसि भयं तन्माभूत् ‘557पराङ्युखेषु मे खङ्गः कदाचिदपि न प्रहर्तुमुत्सहते’ इति सर्वदैव रूढोऽहंकारः प्रतीयते । सोऽयं गर्वप्रकृतिरुद्धतो नाम रसः । केचित् पुनः—

‘आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ ७९ ॥’

इत्येवमूर्जखीत्युदात्तपक्षे निक्षिपन्तः पूर्वोक्तमेव गर्वप्रकर्षोदाहरणं धृतायुधो यावदहमित्याद्युद्धतनिष्पत्तौ वर्णयन्ति ॥

रतिविशेषेषु नैसर्गिकी यथा—

‘इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमन्य558 मानिनी ।
अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ८० ॥’
  1. ‘इति गीयते’ क ख
  2. ‘प्रवृत्तोपरमति’ क ख
  3. ‘संसृज्यमान उदात्तरसरूपेण’ क
  4. ‘यत्ते चेतसि भयम्’ ख
  5. न मम खङ्गः पराङ्युखेषु कदाचिदपि प्रहर्तुमुत्सहत’ क ख ग
  6. ‘अवमत्य मानिनी’ क ख