600

अत्र जन्मान्तरवासनया निसर्गत इयं भवति ॥

सांसर्गिकी यथा—

‘भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वस्पृष्टं559 यदि किल भवेदङ्गमेभिस्तवेति ॥ ८१ ॥’

अत्र शैत्यसौरभादिभिर्विरहिज560नोद्वेजनीया अपि वायवः प्रियतमाङ्गसंसर्गसंभावनया 561समाश्लिष्यन्त इति संसर्गत इयं भवति ॥

औपमानिकी यथा—

‘अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो- रभिनवशतपत्त्रश्रीमदास्यं562 प्रियायाः ॥ ८२ ॥’

सेयं सीताविषयिणी रतिस्तदुपमानदर्शनेन रामं 563रमयति ॥

आध्यात्मिकी यथा—

‘कामं564 प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मे चेतः ॥ ८३ ॥’

अत्र सेयं दुर्वाससः शापाद्विस्मृतविवाहादिवृत्तान्तस्य दुष्यन्तस्य शकुन्तलायां रतिरध्यात्मं भवति ॥

  1. ‘पूर्वं स्पृष्टम्’ क ख
  2. ‘विरहिण उद्वेजनीया’ क ख
  3. ‘समालिङ्ग्यन्त इति संसर्गादियं रतिभवति’ क ख
  4. ‘शतपत्त्रग्रीव’ क
  5. ‘रमयते’ क ख
  6. ‘कामं प्रत्यादिष्टम्’ क