601
आभियोगिकी यथा—
‘अलसवलितमुग्धस्निग्घनिष्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारै; ।
हृदयमशरणं565 मे पक्ष्मलाक्ष्याः काटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ ८४ ॥’
सेयमनुरागातिशयसूचकमालतीकटाक्षाभियोगे माधवस्य 566रतिरतीवोत्पद्यते ॥
सांप्रयोगिकी यथा—
‘उन्नमय्य सकचग्रहमास्यं
चुम्बति प्रियतमे हठवृत्त्या ।
हुंहुँ मुञ्च मममेति च मन्दं
जल्पितं जयति मानधनायाः ॥ ८५ ॥’
अत्र तर्जनार्थ—मोक्षार्थ—वारणार्थानां मन्दं मन्दं प्रयोगान्मानवत्याः संप्रयोगे रत्युत्पत्तिः प्रतीयते ॥
आभिमानिकी यथा—
अत्र रुचिविशेषोऽभिमानस्तत एवंप्राया रतयो भवन्ति ॥